क्षत्तृः

सुधाव्याख्या

क्षदति । ‘क्षद संवरणे’ सौत्रः । ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ (उ० २.९४) । मुकुटस्तु ‘नप्तृनेष्टृत्वष्टृ-’ (उ० २.९५) इति तृच्-इत्याह । तन्न । नप्त्त्रादिषु क्षत्तुग्रहणात् । यदपि— 'क्षद स्थैर्ये हिंसायां च' इत्यतस्तृच् (३.१.१३३) तन् (३.२.१३५) वा–इत्युक्तम् । तदपि न । उक्तपाठस्यादर्शनात् । 'खद स्थैर्ये’ (भ्वा० प० से०) इति पाठस्य दर्शनाच्च ॥