अमरकोशः


श्लोकः

निगालस्तु गलोद्देशे वृन्दे त्वाश्वीयमाश्ववत् । आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ॥ ४८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निगाल निगालः पुंलिङ्गः निगलत्यनेन । घञ् कृत् अकारान्तः
2 गलोद्देश गलोद्देशः पुंलिङ्गः गलस्योद्देशः समीपभागः ॥ तत्पुरुषः समासः अकारान्तः
3 अश्वीय अश्वीयम् नपुंसकलिङ्गः अश्वानां समूहः । तद्धितः अकारान्तः
4 आश्व आश्वम् नपुंसकलिङ्गः अण् तद्धितः अकारान्तः
5 आस्कन्दित आस्कन्दितम् नपुंसकलिङ्गः आस्कन्दनम् । क्त कृत् अकारान्तः
6 धौरितक धौरितकम् नपुंसकलिङ्गः धोरणम् । क्त कृत् अकारान्तः
7 रेचित रेचितम् नपुंसकलिङ्गः रेचनम् । क्त कृत् अकारान्तः
8 वल्गित वल्गितम् नपुंसकलिङ्गः वल्गनम् । क्त कृत् अकारान्तः
9 प्लुत प्लुतम् नपुंसकलिङ्गः प्लवनम् । क्त कृत् अकारान्तः