आस्कन्दितम्

सुधाव्याख्या

आस्केति । आस्कन्दनम् । ‘स्कन्दिर् गतिशोषणयोः’ (भ्वा० प० अ०) । स्वार्थण्यन्तः । भावे क्तः (३.३.११४) । आस्कन्दः संजातोऽस्य वा तारकादित्वात् (५.२.३६) इतच् । एवमि ण्नलोपाभावश्च नानुपपन्नः ('उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं कोपादिवाखिलैः पदैः’ इति हैममाला) ॥


प्रक्रिया

धातुः -


स्कन्दिँर् गतिशोषणयोः
स्कन्द् - इर इत्संज्ञा वाच्या (1.3.7) । वार्तिकम् ।
आ + स्कन्द् + क्त - नपुंसके भावे क्तः 3.3.114
आ + स्कन्द् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आ + स्कन्द् + इट् + त - आर्धधातुकस्येड् वलादेः 7.2.35
आ + स्कन्द् + इ + त - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आस्कन्दित + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आस्कन्दित + अम् - अतोऽम् 7.1.24
आस्कन्दितम् - अमि पूर्वः 6.1.107