निगालः

सुधाव्याख्या

नीति । निगलत्यनेन । ‘गल अदने’ (भ्वा० प० से०) । हलश्च (३.३.१२१) इति घञ् । निगरत्यनेन वा । 'गॄ निगरणे' (तु० प० से०) । ‘उन्न्योर्ग्रः’ (३.३.२९) इति घञ् । ‘अचि विभाषा' (८.२.३१) इति वा लः ॥