धौरितकम्

सुधाव्याख्या

धोरणम् । धोर्ऋ गतिचातुर्ये' (भ्वा० प० से०) । भावे क्तः (३.३.११४) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘अथ धौरितकं घौर्यं धा (धो) रणं धौरितं च तत्' इति वाचस्पतिः । वृद्धिमत्पाठे प्रज्ञाद्यण् (५.४.३८) बोध्यः । (‘तत्र धौरितकं धौर्यं धोरणं धोरितं च तत् । बभ्रुकङ्कशिखिक्रोडगतिवत्' इति हैमनाममाला) ॥