प्लुतम्

सुधाव्याख्या

प्लवनम् । ‘प्लुङ् गतौ' (भ्वा० आ० अ०) । क्तः (३.३.११४) । 'प्लुतं तु लङ्घनं पक्षिमृगगत्यनुहारकम्’ इति हैमः) । ‘प्लुतमश्वस्य गतौ प्लुतस्त्रिमात्रके’ इति हैमः ॥