अमरकोशः


श्लोकः

प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ । हास्तिकं गजता वृन्दे करिणी धेनुका वशा ॥ ३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रभिन्न प्रभिन्नः पुंलिङ्गः प्रकर्षेण भिद्यते स्म । क्त कृत् अकारान्तः
2 गर्जित गर्जितः पुंलिङ्गः गर्जयति । क्त कृत् अकारान्तः
3 मत्त मत्तः पुंलिङ्गः माद्यति । क्त कृत् अकारान्तः
4 उद्वान्त उद्वान्तः पुंलिङ्गः उद्गतं वान्तं मदवमनमस्मात् । बहुव्रीहिः समासः अकारान्तः
5 निर्मद निर्मदः पुंलिङ्गः निर्गतो मदोऽस्माद्वा ॥ बहुव्रीहिः समासः अकारान्तः
6 हास्तिक हास्तिकम् नपुंसकलिङ्गः हस्तिनां समूहः । ठक् तद्धितः अकारान्तः
7 गजता गजता स्त्रीलिङ्गः गजानां समूहः । तल् तद्धितः आकारान्तः
8 करिणी करिणी स्त्रीलिङ्गः करोऽस्त्यस्याः । इनि तद्धितः ईकारान्तः
9 धेनुका धेनुका स्त्रीलिङ्गः धेनुरिव । कन् तद्धितः आकारान्तः
10 वशा वशा स्त्रीलिङ्गः उश्यते । अप् कृत् आकारान्तः