उद्वान्तः

सुधाव्याख्या

सेति । उद्गतं वान्तं मदवमनमस्मात् । ‘उद्वान्त उद्गीर्णे निर्मदद्विपे’ इति हैमः ॥


प्रक्रिया

धातुः -


उद् + वान्त + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
उद्वान्त + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उद्वान्त + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उद्वान्त + रु - ससजुषो रुः 8.2.66
उद्वान्त + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उद्वान्तः - खरवसानयोर्विसर्जनीयः 8.3.15