गर्जितः

सुधाव्याख्या

गर्जयति । ‘गर्ज शब्दे’ (चु० प० से०) । अकर्मकत्वात् (३.४.७२) । कर्तरि क्तः । गर्जो जातोऽस्य । तारकादित्वात् (५.२.३६) इतच् । ‘गर्जितं वारिवाहादिध्वनौ ना मत्तकुञ्जरे’ इति विश्वमेदिन्यौ ॥