वशा

सुधाव्याख्या

उश्यते । ‘वश कान्तौ’ (अ० प० से०) । ‘वशिरण्योश्च’ (वा० ३.३.५८) इत्यप् । वष्टि वा । अच् (३.१.१३४) । ‘वशा नार्यां बन्धगव्यां हस्तिन्यां दुहितर्यपि’ (इति हैमः) । तालव्यशा । ‘वशा वन्ध्यासुतायोषास्त्रीगवीकरिणीषु च’ इति तालव्यान्तेषु विश्वात् ॥