अमरकोशः


श्लोकः

सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववायः सन्तानः वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संतति संततिः स्त्रीलिङ्गः सन्तन्यते । क्तिन् स्त्रीप्रत्ययः इकारान्तः
2 गोत्र गोत्रम् नपुंसकलिङ्गः गूयते । ष्ट्रन् उणादिः अकारान्तः
3 जनन जननम् नपुंसकलिङ्गः जन्यते । ल्युट् कृत् अकारान्तः
4 कुल कुलम् नपुंसकलिङ्गः कूयते । लक् बाहुलकात् अकारान्तः
5 अभिजन अभिजनः पुंलिङ्गः अभिजन्यते । घञ् कृत् अकारान्तः
6 अन्वय अन्वयः पुंलिङ्गः अन्वीयते । अच् कृत् अकारान्तः
7 वंश वंशः पुंलिङ्गः वन्यते । घञ् कृत् अकारान्तः
8 अन्ववाय अन्ववायः पुंलिङ्गः अन्ववाय्यते । घञ् कृत् अकारान्तः
9 संतान संतानः पुंलिङ्गः सन्तन्यते । घञ् कृत् अकारान्तः
10 वर्ण वर्णः पुंलिङ्गः वर्ण्यते । घञ् कृत् अकारान्तः