वर्णः

सुधाव्याख्या

वेति । वर्ण्यते । ‘वर्ण प्रेरणे’ (चु० प० से०) । घञ् (३.३.१९) । वर्णयति । अच् (३.१.१३४) वा । ‘वर्णो द्विजादि शुक्लादियज्ञे गुणकथासु च । स्तुतौ ना न स्त्रियां भेदरूपाक्षरविलेपने’ (इति मेदिनी) ॥