अभिजनः

सुधाव्याख्या

अभिजन्यते । कर्मणि घञ् (३.३.१९) । णिलोपस्य स्थानिवत्वात् `जनिवध्योश्च' (७.३.३५) इति निषेधाद्वा वृद्धिर्न । यद्वा अभितोऽभिमुखो वा जनो जन्मात्र । 'भवेदभिजनः ख्यातौ जन्मभूम्यां कुलध्वजे । कुलेऽपि च पुमान्’ (इति मेदिनी) ॥