संतानः

सुधाव्याख्या

सन्तन्यते । घञ् (३.३.१९) । ‘सन्तानः सन्ततौ गोत्रे स्यादपत्ये सुरद्रुमे’ (इति मेदिनी) । कर्तृकरणाधिकरणेष्वपि विग्रहः सम्भवति । आद्ये ‘तनोतेः’ (वा० ३.१.१४०) इति णः । अन्यत्र ‘हलश्च’ (३.३.१२१) इति घञ् ॥