कुलम्

सुधाव्याख्या

कूयते । ‘कुङ् शब्दे’ (भ्वा० आ० से०) । बाहुलकाल्लक् । कोलति । ‘कुल संस्त्याने’ (वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति को वा । कुं भूमिं लाति । कः (३.२.३) वा । कौ लीयते । ‘लीड् श्लेषणे' (दि० आ० अ०) । अन्येभ्योऽपि (वा० ३.२.१०१) इति डः । ‘कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने च तनौ क्लीबं कण्टकार्योषधौ कुली’ (इति मेदिनी) ॥