वंशः

सुधाव्याख्या

‘वश कान्तौ' (अ० प० से०) । घञ् (३.३.१९) । ‘आच्छनद्योः (७.१.८०) इत्यत्र नुम्’ इति योगविभागान्नुम् । यद्वा वन्यते । ‘वन सम्भक्तो’ (भ्वा०प० से०) । बाहुलकाच्छः-वमति । 'भुवमिकुभ्यः’ इति शक्-इति मुकुटः । तन्न । उक्तसूत्रस्योज्ज्वलदत्तादिष्वदर्शनात् । ‘वंशो वेणौ कुले वगै पृष्ठाद्यवयवेऽपि च' इति विश्वमेदिन्यौ ॥