अमरकोशः


श्लोकः

अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने । कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ९४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अपाङ्ग अपाङ्गः पुंलिङ्गः अपाङ्गति । अच् कृत् अकारान्तः
2 कटाक्ष कटाक्षः पुंलिङ्गः कटावतिशयितावक्षिणी यत्र । बहुव्रीहिः समासः अकारान्तः
3 अपाङ्गदर्शन अपाङ्गदर्शनम् नपुंसकलिङ्गः अपाङ्गेन दर्शनम् ॥ तत्पुरुषः समासः अकारान्तः
4 कर्ण कर्णः पुंलिङ्गः कीर्यते शब्दग्रहणाय क्षिप्यते । उणादिः अकारान्तः
5 शब्दग्रह शब्दग्रहः पुंलिङ्गः शब्दो गृह्यतेऽनेन । अप् कृत् अकारान्तः
6 श्रोत्र श्रोत्रम् नपुंसकलिङ्गः श्रूयतेऽनेन । ष्ट्रन् उणादिः अकारान्तः
7 श्रुति श्रुतिः स्त्रीलिङ्गः श्रूयतेऽनया । क्तिन् स्त्रीप्रत्ययः इकारान्तः
8 श्रवण श्रवणः पुंलिङ्गः, नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
9 श्रवस् श्रवः नपुंसकलिङ्गः असुन् उणादिः सकारान्तः