शब्दग्रहः

सुधाव्याख्या

शब्दो गृह्यतेऽनेन । ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् । संज्ञायां ‘हलश्च’ (३.३.१२१) इति घञ् विधीयते घापवादत्वात् । योगार्थमात्रे तु स ना ॥