कटाक्षः

सुधाव्याख्या

केति । कटावतिशयितावक्षिणी यत्र । ‘बहुव्रीहौ सक्थ्यक्ष्णोः-’ (५.४.११३) इति षच् । कटं गण्डमक्षति वा । ‘अक्षू व्याप्तौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । ‘कटाक्षकाक्षौ’ इति रभसात् काक्षोऽपि ॥