अपाङ्गः

सुधाव्याख्या

अपेति । अपाङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) अपकृष्टेऽङ्गाद्वा । अपकृष्टान्यङ्गान्यस्माद्वा । ‘अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च’ इति विश्वः ॥