कर्णः

सुधाव्याख्या

केति । कीर्यते शब्दग्रहणाय क्षिप्यते । यद्वा कीर्यते शब्दोऽस्मिन् । किरति शरीरे मुखं वा । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘कॄवृजॄसि-’ (उ० ३.१०) इति नः । यद्वा कर्णयति । ‘कर्ण भेदने’ (चु० उ० से०) अदन्तः । अच् (३.३.१३४) । ‘कर्णः पृथासुते ज्येष्ठे सुवर्णालौ श्रुतावपि’ (इति मेदिनी) । यत्तु करोति शब्दज्ञानम् इति मुकुटः । तन्न । ह्रस्वान्नप्रत्ययाविधानात् ॥