श्रोत्रम्

सुधाव्याख्या

श्रूयतेऽनेन । ‘श्रु श्रवणे’ (भ्वा० प० अ०) । ष्ट्रन् (उ० ४.१५९) ॥


प्रक्रिया

धातुः -


श्रु श्रवणे
श्रु + ष्ट्रन् - सर्वधातुभ्यः ष्ट्रन् (४.१५९) । उणादिसूत्रम् ।
श्रु + त्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, षः प्रत्ययस्य 1.3.6
श्रोत्र - सार्वधातुकार्धधातुकयोः 7.3.84
श्रोत्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
श्रोत्र + अम् - अतोऽम् 7.1.24
श्रोत्रम् - अमि पूर्वः 6.1.107