अमरकोशः


श्लोकः

अङ्गष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुल: । पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गलौ ॥ ८४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वितस्ति वितस्तिः पुंलिङ्गः, स्त्रीलिङ्गः वितस्यति । ति उणादिः इकारान्तः
2 द्वादशाङ्गुल द्वादशाङ्गुलः पुंलिङ्गः द्वादश अङ्गुलयः प्रमाणमस्य । द्विगुः समासः अकारान्तः
3 चपेट चपेटः पुंलिङ्गः चपति । तत्पुरुषः समासः अकारान्तः
4 प्रतल प्रतलः पुंलिङ्गः प्रतलति । अच् कृत् अकारान्तः
5 प्रहस्त प्रहस्तः पुंलिङ्गः प्रसृतो हस्तः । तत्पुरुषः समासः अकारान्तः