वितस्तिः

सुधाव्याख्या

एति । कनिष्ठया सह विततेऽङ्गुष्ठे । वितस्यति । वितस्यते वा । ‘तसु उपक्षये’ (दि० प० से०) । ‘वौ तसेः’ (उ० ४.१८२) इति तिः ।–बाहुलकात्तिः-इति मुकुट एतत्सूत्रास्मरणमूलकः ॥