प्रतलः

सुधाव्याख्या

प्रतलति ‘तल प्रतिष्ठायाम् (चु० प० से०) । अच् (३.१.१३४) । ‘प्रतलं पातालभेदे तताङ्गुलिकरे पुमान्’ (इति मेदिनी) । ‘तलम्’ अप्यत्र । ‘तलं स्वरूपाधरयोः खड्गमुष्टिचपेटयोः’ इति विश्वः । (‘तलश्चपेटे तालद्रौ’ इति हैमतः । ‘– पुंसि तालमहीरुहे । चपेटे च’ इति मेदिनीतश्च पुंस्ययम्) ॥