द्वादशाङ्गुलः

सुधाव्याख्या

द्वादश अङ्गुलयः प्रमाणमस्य । ‘तद्धितार्थोत्तर-’ (२.१.५१) इति द्विगुः । ‘द्विगोर्नित्यम्’ । (वा० ५.२.३७) इति मात्रचो लुक् । ‘तत्पुरुषस्याङ्गुलेः’ (५.४.८६) इत्यच् ॥


प्रक्रिया

धातुः -


द्वादश + जस् + अङ्गुलि + जस् - तद्धितार्थोत्तरपदसमाहारे च 2.1.51
द्वादश + अङ्गुलि - सुपो धातुप्रातिपदिकयोः 2.4.71
द्वादश + अङ्गुलि + मात्रच् - प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5.2.37
द्वादश + अङ्गुलि - द्विगोर्नित्यम् (५.२.३७) । वार्तिकम् ।
द्वादशाङ्गुलि - अकः सवर्णे दीर्घः 6.1.101
द्वादशाङ्गुलि + अच् - तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः 5.4.86
द्वादशाङ्गुलि + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
द्वादशाङ्गुल् + अ - यस्येति च 6.4.148
द्वादशाङ्गुल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
द्वादशाङ्गुल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
द्वादशाङ्गुल + रु - ससजुषो रुः 8.2.66
द्वादशाङ्गुल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
द्वादशाङ्गुलः - खरवसानयोर्विसर्जनीयः 8.3.15