प्रहस्तः

सुधाव्याख्या

प्रसृतो हस्तः । ‘प्रादयो गता-’ (वा० २.२.१८) इति समासः ॥


प्रक्रिया

धातुः -


प्र + हस्त + सु - प्रादयो गताद्यर्थे प्रथमया ।
प्र + हस्त - सुपो धातुप्रातिपदिकयोः 2.4.71
प्रहस्त + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रहस्त + रु - ससजुषो रुः 8.2.66
प्रहस्त + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रहस्तः - खरवसानयोर्विसर्जनीयः 8.3.15
प्रहस्तः