अमरकोशः


श्लोकः

भगं योनिर्द्वयोः शिश्नो मेढ्रं मेहनशेफसी । मुष्कोऽण्डकोशो वृषण: पृष्ठवंशाधरे त्रिकम् ॥ ७६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भग भगम् नपुंसकलिङ्गः भज्यते । कृत् अकारान्तः
2 योनि योनिः पुंलिङ्गः, स्त्रीलिङ्गः यौति । नि उणादिः इकारान्तः
3 शिश्न शिश्नः पुंलिङ्गः शशति । नक् बाहुलकात् अकारान्तः
4 मेढ्र मेढ्रम् नपुंसकलिङ्गः मेहन्त्यनेन । ष्ट्रन् कृत् अकारान्तः
5 मेहन मेहनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 शेफस् शेफः नपुंसकलिङ्गः शेते रेतःपाते । असुन् उणादिः सकारान्तः
7 मुष्क मुष्कः पुंलिङ्गः मुष्णाति रेतः । कक् उणादिः अकारान्तः
8 अण्डकोश अण्डकोशः पुंलिङ्गः अण्डयोः कोशः ॥ तत्पुरुषः समासः अकारान्तः
9 वृषण वृषणः पुंलिङ्गः वर्षति । क्यु बाहुलकात् अकारान्तः
10 त्रिक त्रिकम् नपुंसकलिङ्गः त्रयाणां संघः । कन् तद्धितः अकारान्तः