भगम्

सुधाव्याख्या

भेति । भज्यते । ‘भज सेवायाम्’ (भ्वा० उ० अ०) । ‘खनो घ च’ (३.३.१२५) इति घित्त्वात् ‘भजेः’ अपि घः । ‘भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । माहात्म्यैश्वर्ययत्नेषु धर्मे मोक्षे च ना रवौ' इति विश्वमेदिन्यौ ॥