मुष्कः

सुधाव्याख्या

म्विति । मुष्णाति रेतः । ‘मुष स्तेये’ (क्र्या० प० से०) । ‘सृवृभूशुषिमुषिभ्यः कक्’ (उ० ३.४१) –‘भूशुषिमुषिभ्यः कः कित्’ इति कः इति मुकुटोऽपाणिनीयः । ‘मुष्को मोक्षकवृक्षे स्यात्संघाते वृषणेऽपि च’ (इति मेदिनी) ॥