वृषणः

सुधाव्याख्या

वर्षति । 'वृषु सेचने’ (भ्वा० प० से०) । बाहुलकात् क्युः । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युचि वा संज्ञापूर्वकत्वाद्गुणाभावः ॥