शेफः

सुधाव्याख्या

शेते रेतःपाते । ‘वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च’ (उ० ४.२०१) इत्यसुन् । ‘पुट् च’ इति वा पाठः । ‘शेपः । बाहुलकात् प-फ -प्रत्ययाभ्यामदन्तावप्येतौ (शेफशेपौ) । अत एव ‘शेपपुच्छ-’ (६.३.२१) इति वार्तिकं संगच्छते ॥