अमरकोशः


श्लोकः

शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः । गेन्दुकः कन्दुकः दीपः प्रदीपः पीठमासनम् ॥ १३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शयन शयनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 मञ्च मञ्चः पुंलिङ्गः मञ्चते । अच् कृत् अकारान्तः
3 पर्यङ्क पर्यङ्कः पुंलिङ्गः परितोऽङ्क्यते । घञ् कृत् अकारान्तः
4 पल्यङ्क पल्यङ्कः पुंलिङ्गः परितोऽङ्क्यते । घञ् कृत् अकारान्तः
5 खट्वा खट्वा स्त्रीलिङ्गः खट्यते निद्रालुभिः । क्वन् उणादिः आकारान्तः
6 गेन्दुक गेन्दुकः पुंलिङ्गः गाते । तत्पुरुषः समासः अकारान्तः
7 कन्दुक कन्दुकः पुंलिङ्गः कन्द्यते । बाहुलकात् अकारान्तः
8 दीप दीपः पुंलिङ्गः दीप्यते । कृत् अकारान्तः
9 प्रदीप प्रदीपः पुंलिङ्गः अन्योपसर्गनिवृत्त्यर्थः प्रः ॥ कृत् अकारान्तः
10 पीठ पीठम् नपुंसकलिङ्गः पठेन्त्यत्र । घञ् कृत् अकारान्तः
11 आसन आसनम् नपुंसकलिङ्गः आस्यतेऽत्र । ल्युट् कृत् अकारान्तः