गेन्दुकः

सुधाव्याख्या

गयिति । गाते । ‘गाङ् गतौ’ (अ० आ० अ०) । विच् (३.२.७५) । गा गच्छन्निन्दुरिव । ‘इवे’ (५.३.९६) इति कन् । गे गगने इन्दुरिव, इति वा ॥


प्रक्रिया

धातुः -


गाङ् गतौ
गा - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गा + विच् - अन्येभ्योऽपि दृश्यन्ते 3.2.75
गा + व् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गा - वेरपृक्तस्य 6.1.67
गा + सु + इन्दु + सु - उपमितं व्याघ्रादिभिः सामान्याप्रयोगे 2.1.56
गा + इन्दु - सुपो धातुप्रातिपदिकयोः 2.4.71
गेन्दु - आद्गुणः 6.1.87
गेन्दु + कन् - इवे प्रतिकृतौ 5.3.96
गेन्दुक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गेन्दुक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गेन्दुक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गेन्दुक + रु - ससजुषो रुः 8.2.66
गेन्दुक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गेन्दुकः - खरवसानयोर्विसर्जनीयः 8.3.15