पीठम्

सुधाव्याख्या

पीति । पठेन्त्यत्र । ‘पिठ हिंसासंक्लेशनयो:’ (भ्वा० प० से०) । ‘हलश्च’ (२.३.१२१) इति घञ् । बाहुलकाद्दीर्घः । पीयतेऽत्र वा । ‘पीङ् पाने’ (दि० आ० अ०) । बाहुलकाठ्ठक् । ‘विष्टरः पीठमस्त्रियाम्’ इति त्रिकाण्डशेषः ॥