कन्दुकः

सुधाव्याख्या

कन्द्यते । ‘कदि आह्वाने रोदने च’ (भ्वा० प० से०) । बाहुलकादुः । कं सुखं ददाति, दयते, द्यति, यच्छति, वा । मितद्र्वादित्वात् (वा० ३.२.१८०) डुः । स्वार्थे कन् (ज्ञापि० ५.४.५) कं शिरो दुनोति, दवति, वा । ‘टु दु उपतापे’ (भ्वा० प० अ०) । ‘दु गतौ’ (भ्वा० प० अ०) वा । प्राग्वत् ॥ ‘वीटा’ इत्यपि भारते ।