पर्यङ्कः

सुधाव्याख्या

परितोऽङ्क्यते । ‘अकि लक्षणे’ (भ्वा० आ० से०) । घञ् (३.२.१९) । ‘परेश्च घाङ्कयोः’ (८.२.२२) इति वा लत्वम् । ‘पल्यङ्को मञ्चपर्यङ्कवृषीपर्यस्तिकासु च’ (इति मेदिनी) ॥