अमरकोशः


श्लोकः

पतङ्गिका पुत्तिका स्याद् दंशस्तू वनमक्षिका । दंशी तज्जातिरल्पा स्याद्गन्धोली वरटा द्वयोः ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पतङ्गिका पतङ्गिका स्त्रीलिङ्गः पतति । अङ्गच् उणादिः आकारान्तः
2 पुत्तिका पुत्तिका स्त्रीलिङ्गः पुत् कुत्सितं तायते । बाहुलकात् आकारान्तः
3 दंश दंशः पुंलिङ्गः दशति । अच् कृत् अकारान्तः
4 वनमक्षिका वनमक्षिका स्त्रीलिङ्गः वनस्य मक्षिका ॥ तत्पुरुषः समासः आकारान्तः
5 दंशी दंशी स्त्रीलिङ्गः अल्पा दंशजातिः । ङीष् तद्धितः ईकारान्तः
6 गन्धोली गन्धोली स्त्रीलिङ्गः गन्धयते । ओलच् बाहुलकात् ईकारान्तः
7 वरटा वरटा पुंलिङ्गः, स्त्रीलिङ्गः वृणोति । अटन् उणादिः आकारान्तः