दंशः

सुधाव्याख्या

दंश इति । दशति । ‘दंश दशने’ (भ्वा० प० अ०) । अच् (३.१.१३४) । ‘दंशः कीटविशेषे च वर्मदंशनयोः पुमान्’ (इति मेदिनी) ॥