पतङ्गिका

सुधाव्याख्या

पेति । पतति । ‘पतेरङ्गच् पक्षिणि’ (उ० १.११९) इत्यङ्गच् । स्वार्थे कन् (५.३.७५) संज्ञायां वा ॥


प्रक्रिया

धातुः -


पतॢँ गतौ
पत् - उपदेशेऽजनुनासिक इत् 1.3.2
पत् + अङ्गच् - पतेरङ्गच् पक्षिणि (१.११९) । उणादिसूत्रम् ।
पत् + अङ्ग - हलन्त्यम् 1.3.3
पतङ्ग + सु + कन् - संज्ञायां कन् 5.3.75
पतङ्ग + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
पतङ्ग + क हलन्त्यम् 1.3.3
पतङ्गक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
पतङ्गक + आ- हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
पतङ्गिक + आ - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
पतङ्गिका - अकः सवर्णे दीर्घः 6.1.101
पतङ्गिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पतङ्गिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पतङ्गिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68