अमरकोशः


श्लोकः

चव्यं तु चविकं काकचिञ्चागुञ्जे तु कृष्णला । पलंकषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः ॥ ९८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चव्य चव्यम् नपुंसकलिङ्गः चर्व्यते । ण्यत् कृत् अकारान्तः
2 चविक चविकम् नपुंसकलिङ्गः चविकम् ॥ क्वुन् उणादिः अकारान्तः
3 काकचिञ्चा काकचिञ्चा स्त्रीलिङ्गः काकवणी चिञ्चा ॥ तत्पुरुषः समासः आकारान्तः
4 गुञ्जा गुञ्जा स्त्रीलिङ्गः गुञ्जति । अच् कृत् आकारान्तः
5 कृष्णला कृष्णला स्त्रीलिङ्गः कृष्णं वर्णं लाति ॥ तत्पुरुषः समासः आकारान्तः
6 पलंकषा पलङ्कषा स्त्रीलिङ्गः पलं मांसं कषति । तत्पुरुषः समासः आकारान्तः
7 इक्षुगन्धा इक्षुगन्धा स्त्रीलिङ्गः इक्षुगन्ध इव गन्धोऽस्याः । तत्पुरुषः समासः आकारान्तः
8 श्वदंष्ट्रा श्वदंष्ट्रा पुंलिङ्गः, स्त्रीलिङ्गः शुनो दंष्ट्रेव । तत्पुरुषः समासः आकारान्तः
9 स्वादुकण्टक स्वादुकण्टकः पुंलिङ्गः स्वादुः कण्टकोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः