गुञ्जा

सुधाव्याख्या

गुञ्जति । ‘गुजि अव्यक्ते शब्दे (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । ‘गुञ्जा तु काकचिञ्चायां पटहे च कलध्वनौ’ (इति मेदिनी) ॥