पलङ्कषा

सुधाव्याख्या

पलमिति । पलं मांसं कषति । ‘कष हिंसार्थ:' (भ्वा० प० से०) । मूलविभुजादित्वात् (वा० ३.२.५) कः । पृषोदरादि: (६.३.१०९) ।-‘तत्पुरुषे-' (६.३.१४) इति द्वितीयाया अलुक्—इति मुकुटः । तन्न । अलौकिकविग्रहेऽमोऽप्रवेशात् । ‘पलंकषा गोक्षुरके स्त्रियां रास्नापलाशयोः' इति मूर्धन्यान्तेषु रभसः । यत्तु–‘कर्षति' इति विगृह्य ‘पृषोदरादिः' (६.३.१०९) इत्युक्तम् । तच्चिन्त्यम् । कषितिनैव सिद्धत्वात् । अच् प्रत्यय विधानमपि चिन्त्यम् । कर्मण्यण: प्रसङ्गात् । ‘पलंकषा गोक्षुरके रास्नागुग्गुलुकिंशुके । तु(मु)ण्डीरीलाक्षयोश्च स्त्री राक्षसे तु पलंकष:' (इति विश्वमेदिन्यौ) ॥