चविकम्

सुधाव्याख्या

क्वुन् । (उ० २.३२) । चविकम् ॥ स्त्रियामपि । ‘चव्या कोला च चविका चव्यं कुञ्जरपिप्पली' इति हट्टचन्द्रः ॥ द्वे ‘चव्य' इति ख्यातस्य । केचित्तु पूर्वान्वयमाहुः । यदाह चन्द्रनन्दन:-‘चव्या कोलाथ चविका श्रेयसी गजपिप्पली । च्य वना कोलवल्ली तु चव्यं कुञ्जरपिप्पली' । अत्र तुस्थाने चः पाठ्यः ।