चव्यम्

सुधाव्याख्या

चेति । चर्व्यते । ‘चर्व अदने’ (भ्वा० प० से०) । ण्यत् (३.१.१२५) । पृषोदरादिः (६.३.१०९) । ‘चव्यं तु चविके क्लीबं वचायामपि योषिति' (इति मेदिनी) ॥