अमरकोशः


श्लोकः

मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि । पाठाऽम्बष्ठा विद्धकर्णी स्थापनी श्रेयसी रसा ॥ ८४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मधूलिका मधूलिका स्त्रीलिङ्गः मधु लाति । तत्पुरुषः समासः आकारान्तः
2 मधुश्रेणी मधुश्रेणी स्त्रीलिङ्गः मधुनः श्रेणिरत्र ॥ तत्पुरुषः समासः ईकारान्तः
3 गोकर्णी गोकर्णी स्त्रीलिङ्गः गोः कर्ण इव, गौः कर्णो यस्याः, इति वा । तत्पुरुषः समासः ईकारान्तः
4 पीलुपर्णी पीलुपर्णी स्त्रीलिङ्गः पीलोरिव पर्णान्यस्याः । बहुव्रीहिः समासः ईकारान्तः
5 पाठा पाठा स्त्रीलिङ्गः पठ्यते । घञ् कृत् आकारान्तः
6 अम्बष्ठा अम्बष्ठा स्त्रीलिङ्गः आकारान्तः
7 विद्धकर्णी विद्धकर्णी स्त्रीलिङ्गः विद्धौ कर्णी यया बहुव्रीहिः समासः ईकारान्तः
8 स्थापनी स्थापनी स्त्रीलिङ्गः स्थापयति । ल्युट् कृत् ईकारान्तः
9 श्रेयसी श्रेयसी स्त्रीलिङ्गः अतिशयेन प्रशस्ता । ईयसुन् तद्धितः ईकारान्तः
10 रसा रसा स्त्रीलिङ्गः रस्यते । घञ् कृत् आकारान्तः