पाठा

सुधाव्याख्या

पाठेति । पठ्यते । ‘पठ व्यक्तायां वाचि' (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । ‘पाठस्तु पठने ख्यातो विद्धकर्ण्यां तु योषिति' (इति मेदिनी) ॥