रसा

सुधाव्याख्या

रस्यते । ‘रस आस्वादने (चु० उ० से०) । कर्मणि घञ् (३.३.१९) । अल्लोपस्य स्थानिवत्वान्न वृद्धिः । ‘रसो गन्धरसे जले । शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः । देहधातुप्रभेदे च पारदस्वादयोः पुमान् । स्त्रियां तु रसनापाठा सल्लकीकङ्गुभूमिषु’ (इति मेदिनी) ॥