गोकर्णी

सुधाव्याख्या

गोः कर्ण इव, गौः कर्णो यस्याः, इति वा । ‘पाककर्ण-' (४.१.५४) इति ङीष् । ‘गोकर्णोऽश्वतरेऽपि स्यान्मृगसर्पगणान्तरे । अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ' इति विश्वः ॥