मधूलिका

सुधाव्याख्या

मधु लाति । ‘आतोऽनुप-' (३.२.३) इति कः । 'अन्येषामपि' (६.३.१३७) इति दीर्घः ॥


प्रक्रिया

धातुः - ला आदाने


मधु + सु + ला + क - उपपदमतिङ् 2.2.19, आतोऽनुपसर्गे कः 3.2.3
मधु + ला + क - सुपो धातुप्रातिपदिकयोः 2.4.71
मधु + ला + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मधु + ल् + अ - आतो लोप इटि च 6.4.64
मधूल - अन्येषामपि दृश्यते 6.3.137
मधूल + सु + कन् - संज्ञायां कन् 5.3.75
मधूल + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
मधूलक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मधूलक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
मधूलक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मधूलका - अकः सवर्णे दीर्घः 6.1.101
मधूलिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
मधूलिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मधूलिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मधूलिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68